|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.46. अध्यायः 046
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रति ब्रह्मचारिवनस्थधर्मनिरूपणपूर्वकं तदनुष्ठानस्य श्रेयःसाधनत्वोक्तिः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि।
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्॥ 14-46-1(93644)
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः।
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः॥ 14-46-2(93645)
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्।
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान्॥ 14-46-3(93646)
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः।
धारयीत सदा दण्डं बैल्वं पालाशमेव वा॥ 14-46-4(93647)
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा।
सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह॥ 14-46-5(93648)
मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा।
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः॥ 14-46-6(93649)
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्।
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते॥ 14-46-7(93650)
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः।
न संसरति जातीषु परमं स्थानमाश्रितः॥ 14-46-8(93651)
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्।
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत्॥ 14-46-9(93652)
चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत्।
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः॥ 14-46-10(93653)
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्।
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्॥ 14-46-11(93654)
स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत्।
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः॥ 14-46-12(93655)
समूलफलशाकाद्यैरर्चेदतिथिमागतम्।
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः॥ 14-46-13(93656)
देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः।
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः॥ 14-46-14(93657)
दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन्।
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः॥ 14-46-15(93658)
न्यस्तदेहः सदा दक्षो वननित्यः समाहितः।
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः॥ 14-46-16(93659)
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः।
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्॥ 14-46-17(93660)
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्।
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः॥ 14-46-18(93661)
अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया।
कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने॥ 14-46-19(93662)
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित्।
लाभेन च न हृष्येत नालाभे विमना भवेत्।
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः॥ 14-46-20(93663)
यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः।
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥ 14-46-21(93664)
अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः।
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च॥ 14-46-22(93665)
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा।
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्॥ 14-46-23(93666)
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्।
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन॥ 14-46-24(93667)
न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत्।
शून्यागारमण्यं वा वृक्षमूलं नदीं तथा॥ 14-46-25(93668)
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्।
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्॥ 14-46-26(93669)
अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम्।
दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत्॥ 14-46-27(93670)
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्।
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित्॥ 14-46-28(93671)
उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा।
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च॥ 14-46-29(93672)
अक्रोधश्चानसूया च दमो नित्यमपैशुनम्।
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः॥ 14-46-30(93673)
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत्।
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः॥ 14-46-31(93674)
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्।
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत्॥ 14-46-32(93675)
ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन।
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम्॥ 14-46-33(93676)
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन।
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः॥ 14-46-34(93677)
नाददीत परस्वानि न गृह्णीयान्न याचयेत्।
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः॥ 14-46-35(93678)
मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च।
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान्॥ 14-46-36(93679)
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्।
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः॥ 14-46-37(93680)
श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत्।
मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः॥ 14-46-38(93681)
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च।
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत्॥ 14-46-39(93682)
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च॥ 14-46-40(93683)
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत्।
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते॥ 14-46-41(93684)
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्।
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः॥ 14-46-42(93685)
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्।
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत्॥ 14-46-43(93686)
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः।
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित्॥ 14-46-44(93687)
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च।
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान्॥ 14-46-45(93688)
निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः।
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः॥ 14-46-46(93689)
अपादपाणिपृष्ठं तदशिरस्कमनूदरम्।
अभिन्नगुणकर्माणं केवलं विमलं स्थिरम्॥ 14-46-47(93690)
अगन्धमरसस्पर्शमरूपाशब्दमेव च।
अनुगम्यमनासक्तममांसमपि चैव यत्॥ 14-46-48(93691)
निशअचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा।
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः॥ 14-46-49(93692)
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः।
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च॥ 14-46-50(93693)
यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता।
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत्॥ 14-46-51(93694)
गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत्।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन्॥ 14-46-52(93695)
यथैनमवमन्येरन्परे सततमेव हि।
तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन्॥ 14-46-53(93696)
य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च॥ 14-46-54(93697)
मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा।
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात्॥ 14-46-55(93698)
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः।
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित्॥ 14-46-56(93699)
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः।
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा॥ 14-46-57(93700)
क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम्॥ ॥ 14-46-58(93701)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्चत्वारिंशोऽध्यायः॥ 46 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|